top of page

शारदास्तुतिः ४ (कुक्के. सुब्रह्मण्यशास्त्रीविरचिता कल्याणमूर्तिः करुणालवाला) | sharada stutih 4

शारदास्तुतिः 

श्रीशारदाम्बायै नमः ।
कल्याणमूर्तिः करुणालवाला कलाधरोत्तंसकिरीटकोटिः ।
कलावती काङ्क्षितकल्पवल्ली करोतु कल्याणपरम्परां नः ॥ १॥

चक्रीकृतोल्लोचशिरःफणीन्द्रफणामणीभासुरतूलिकाढ्ये ।
श्रीमंटपान्तर्मृगराजपीठे विद्योतते नः कुलभागधेयम् ॥ २॥

ज्ञेयं मुनीन्द्रैश्चिरयोगसिद्धैस्सविन्मयं तत्परदेवतायाः ।
लीलागृहितं यदुपासकानां ध्ययोपलब्ध्यै विवृणोमि रूपम् ॥ ३॥

श‍ृणोमि वाचं यदि लोचनेन पश्यामि चेत्पादतलेन रूपम् ।
पास्यामि चेदञ्जलिना महाब्धिं कल्पेय देव्या गुणवर्णनाय ॥ ४॥

तथापि वाचंयमसार्वभौमकृपालवालाप्तवचोभिरम्बाम् ।
स्तोष्यामि किञ्चित्प्रतिभातदृष्टश्रुतानुभूतोरुगुणप्रवाहैः ॥ ५॥

रत्नावजीकर्बुरितेन्दुरेखापरिष्कृतानर्घ्यकिरीटकोटिम् ।
लावण्यवापीपुलिनायमा न ललाटखेलच्चिकुरालिचक्राम्…
bottom of page