top of page

शारदास्तोत्रम् १ (शिवाभिनवनृसिंहभारतीविरचितम् नवरात्रोत्सवसमये) | sharada stotram 1

श्रीशारदास्तोत्रम् 

(श्रीश‍ृङ्गाद्रौ श्रीशारदानवरात्रोत्सवसमये)
रत्नावलीनिर्मितशैलश‍ृङ्गविभ्राजदापूर्णसुधाकराभम् ।
आकण्ठरक्ताम्बरसंवृताङ्ग्या मुखाम्बुजं भाति जगज्जनन्याः ॥ १॥

आकण्ठमानम्रजनानुरागो ममेति लोकस्य विबोधनाय ।
आकण्ठरक्ताम्बरसंवृताङ्गी पद्मोत्थजाया प्रविभाति नूनम् ॥ २॥

एवं सर्वजगन्त्यप्युत्सङ्गे सन्निधाय रक्षामि ।
इति बोधनाय जगतामङ्के बालं दधासि मातस्त्वम् ॥ ३॥

शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव ।
अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥ ४॥

स्थालीपुलाकाख्यनयेन मातर्जगन्ति सर्वाण्यपि पालयामि ।
इत्येतदर्थस्य विबोधनाय बालं निजाङ्के विदधासि किं त्वम् ॥…
bottom of page