top of page

शारदास्तोत्रम् ३ (शिवाभिनवनृसिंहभारतीविरचितम् निदानमनुकम्पायाः) | sharada stotram 3

श्रीशारदास्तोत्रम् ३ 
निदानमनुकम्पायाः पदाधःकृतपङ्कजाम् ।
सदा नम्रालिसुखदां कदा द्रक्ष्यामि शारदाम् ॥ १॥

विदामग्रसरो भूयाद्यदालोकनमात्रतः ।
रदालिजितकुन्दां तां कदा द्रक्ष्यामि शारदाम् ॥ २॥

अम्भोदनीलचिकुरां कुम्भोद्भवनिषेविताम् ।
दम्भोलिधारिसंसेव्यां कदा द्रक्ष्यामि शारदाम् ॥ ३॥

रम्भानिभोरुयुगलां कुम्भाभस्तनराजिताम् ।
शुम्भादिदैन्यशमनीं कदा द्रक्ष्यामि शारदाम् ॥ ४॥

अव्याजकरुणामूर्तिं सुव्याहारप्रदायिनीम् ।
रव्यादिमण्डलान्तःस्थां कदा द्रक्ष्यामि शारदाम् ॥ ५॥

मह्यम्ब्वादिजगद्रूपां मह्यं लोकेषु ये जनाः ।
द्रुह्यन्ति तेषां भयदां कदा द्रक्ष्यामि शारदाम्…
bottom of page