top of page
शारदास्तोत्रम् ४ (श्रीधरस्वामीविरचितम् विबुधवन्दिते बुधजनाश्रिते) | Sharada Stotram 4
श्रीशारदास्तोत्रम्
विबुधवन्दिते बुधजनाश्रिते ।
जननि शारदे भवतु ते कृपा ॥ १॥
मतिविकासिते मतिविशोधिते ।
मतिवरार्चिते कुरु कृपां शिवे ॥ २॥
विमलबोधिते निजसुखात्मिके ।
यदि तु ते कृपा स तु सुखी भवेत् ॥ ३॥
जननि ते पदं जडविभासकम् ।
स्फुरत् सर्वदा स्फुटतरं हृदि ॥ ४॥
चिदवलम्ब्य हे जननि मन इदम् ।
अति सुशोभनं विशतु तव पदम् ॥ ५॥
तव सुशोभनं विमलरूपकम्…bottom of page
