top of page
शारदा परमेश्वरी सुप्रभातम् | sharada parameshvari suprabhatam
श्रीशारदा परमेश्वरी सुप्रभातम्
ॐ श्रीशारदे जगन्मा तः पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ करुणापाङ्गैः कर्तव्यं विश्वमङ्गलम् ॥
श्रीशृङ्गाद्रिपुरी रत्नसिंहासननिवासिनी ।
उत्तिष्ठ शारदाम्ब श्री शङ्कराचार्य सन्नुते ॥
उत्तिष्ठोत्तिष्ठ भगवत्पादशङ्करमूर्तिभिः ।
जगद्गुरुभिराराध्ये जगज्जननि शारदे ॥
ब्रह्मर्षयोऽम्ब सनकादय एत्य भक्त्या
ब्राह्मीमनन्य मनसो हृदि ब्रह्मविद्याम् ।
त्वामामनन्त्युपनिषत्सरसीज हंसीम्
श्रीशारदाम्ब वरदे तव सुप्रभातम् ॥
फुल्लानि पङ्कजवनानि सतां मनाम्सि
धीवृत्तयश्च सरितश्च दिशः प्रसान्नाः ।
अज्ञानमाशु तिमिरं च विलीयतेऽम्ब
श्री शारदे विजयते…bottom of page
