top of page
सरस्वतीकल्पः (बप्पभट्टिसूरिरचितः) | sarasvati Kalpah
श्रीबप्पभट्टिसूरिकृतं श्रीसरस्वतीकल्पः
कन्दात् कुण्डलिनी ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा
किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः ।
यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले
तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥ १॥
यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल-
च्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुल ! ध्यायति ।
वाणि वाणिविलासभङ्गुरपदप्रागल्भ्यशृङ्गारिणी
नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ॥ २॥
देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झर-
स्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् ।
तारालङ्कृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो
वक्त्रेणोद्गिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ३॥
क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा-
पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः ।
देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं
ब्राह्मि ! ब्रह्मपद…bottom of page
