top of page
सरस्वतीकवचम् २ (रुद्रयामलान्तर्गतम्) | Sarasvati kavacham
श्रीसरस्वतीकवचम्
भैरव उवाच -
शृणु देवि! प्रवक्ष्यामि वाणीकवचमुत्तमम् ।
त्रैलोक्यमोहनं नाम दिव्यं भोगापवर्गदम् ॥ १॥
मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वाङ्गमविनिश्चितम् ॥ २॥
पठनाच्छ्रवणात् देवि! महापातकनाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
यद्धृत्वा कवचं ब्रह्मा विष्णुरीशः शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ ४॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः ।
शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥
दिगीश्वराश्च दिक्पाला यथावदनुभूतये ।
त्रैलोक्यमोहनं…bottom of page
