top of page
सरस्वतीगीतिः | sarasvati gitih
श्रीसरस्वतीगीतिः
श्री गणेशाय नमः ।
एहि लसत्सितशतदलवासिनि भारति मामकमा स्यम् ।
देहि च मे त्वदमरनिकरार्चितपादतले निजदास्यम् ॥ ध्रुवम् ॥ ॥ १॥
जगदघहारिणि मधुरिपुजाये हिमगिरिजित्वरसिततमकाये ।
श्रुतिततिसंस्कृतपदकमलादृतमिह भुवि नान्यदुपास्यम् ।
भारति मामकमास्यम् ॥ २॥
जडतरजीवनमहह मदीयं श्रुतिविरहान्न हि नृषु गणनीयम् ।
निरवधि कृपां कुरुष्व दयामयि व्यपगच्छेन्मम दास्यम् ।
भारति मामकमास्यम् ॥ ३॥
विकसितनीलजलजकुलवासे विहितबृहस्पतिसमनिजदासे ।
जननि कृशोदरि मम रसनोपरि विरचय शाश्वतहास्यम् ।
भारति…