top of page

सरस्वतीदेवीस्तोत्रम् | sarasvatI devi stotram

देवीस्तोत्रम् 

श्रीसरस्वत्यै नमः ।
श्री शारदे (सरस्वति)!  नमस्तुभ्यं जगद्भवनदीपिके ।
विद्वज्जनमुखाम्भोजभृङ्गिके!  मे मुखे वस ॥ १॥

वागीश्वरि!  नमस्तुभ्यं नमस्ते हंसगामिनि! ।
नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं!  नमोऽस्तु ते ॥ २॥

शक्तिरूपे!  नमस्तुभ्यं कवीश्वरि!  नमोऽस्तु ते ।
नमस्तुभ्यं भगवति!  सरस्वति!  नमोऽस्तुते ॥ ३॥

जगन्मुख्ये नमस्तुभ्यं वरदायिनि!  ते नमः ।
नमोऽस्तु तेऽम्बिकादेवि!  जगत्पावनि!  ते नमः ॥ ४॥

शुक्लाम्बरे!  नमस्तुभ्यं ज्ञानदायिनि!  ते नमः ।
ब्रह्मरूप…
bottom of page