top of page

सरस्वतीद्वादशनामस्तोत्रम् | sarasvati dvadashanama stotram

सरस्वतीद्वादशनामस्तोत्रम् 
सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् ।
हंसवाहसमायुक्तां विद्यादानकरीं मम ॥ १॥

प्रथमं भारती नाम द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ॥ २॥

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा ।
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी ॥ ३॥

नवमं बुद्धिदात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४॥

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना…
bottom of page