top of page

सरस्वतीप्रार्थनास्तोत्रम् १ (शुभानि विदधातु नः किमपि पाणिपद्मस्थली) | sarasvati prarthana stotram 1

श्रीसरस्वतीप्रार्थनास्तोत्रम् 
शुभानि विदधातु नः किमपि पाणिपद्मस्थली-
      विभासिशुकपोतकप्रियवचोभिरानन्दितम् ।
सुधाकरकलासमुल्लसितशेखरं पद्मभू-
      वशीकरणचातुरीकलितलीलमाद्यं महः ॥ १॥

सदा हृदि विभासतां विलसदैन्दव श्रीसख-
      प्रभानिकरनिर्धुताखिलजगत्तमःसंहति ।
सदातनवचस्तुतातुलितवैभवं दुर्दशा-
      निशातनदयारसाञ्चितविलोकनं दैवतम् ॥ २॥

कलक्कणितनूपुरं कलितदीनरक्षाकरं
      शशाङ्ककृतशेखरं शमितभक्तदैन्योत्करम् ।
कदा दुरितदुर्लभं कमलभूमनोवल्लभं
      महोऽहमवलोकये महितसाहितीलब्धये ॥ ३॥

रसज्ञहृदयङ्गमस्फुरदसीमभावोदयां
      तदीयरसभावनासमुचितैर्गुणैर्बन्धुराम् ।
निरर्गलविनिर्गलत्सुरधुनीतरङ्गक्रमां
      विधातृवरवर्णनी वितरताद्वचोवैखरीम ॥ ४॥

विदूरय ममापदं वितर भद्रमव्याहतं
      विधेह…
bottom of page