top of page

सरस्वतीभजनम् | Sarasvati Bhajanam

सरस्वतीभजनम् 
आगच्छ आगच्छ वाणि भावमन्दिरं
मम मनो मन्दिरं
मम देहमन्दिरं
यत्र यत्र तारापीठस्तत्र सुन्दरम् ॥ ध्रुवम्॥

हे राजराजेश्वरि वीणाझङ्कारशेखरि
हे कनकसुन्दरि प्रियझङ्कडगोचरि
वन्दयामि पदकञ्जसुखसुन्दरं
तव नाम सुन्दरं
तव धामसुन्दरं
वितर वितर काव्यामृतसुन्दरम् ॥ १॥

महाकाव्ये धुरन्धरी महाभाष्ये पुरन्दरी
महारासे माहेश्वरी महावाक्ये शुभङ्करी
महायोगे भोगे नाम चिरसुन्दरं
पदवाक्यं सुन्दरं
गाथामृतं सुन्दरं
प्रचलतु मम शब्दयात्रा सत्वरम् ॥ २॥

अयि गुणिगणवाणि त्वमसि सिद्धब्रह्माणी
भाषापीयूषसरणी ऋषिमुकुटद्युमणिः
सकलकवितापुष्पमधुसुन्दरं
तव ध्यानं सुन्दरं
तव ज्ञानं सुन्दरं
प्रणतिततिरस्तु श्रीमुखसुन्दरम्…
bottom of page