top of page
सरस्वतीमन्त्रकल्पः (मल्लिषेणाचार्यविरचितः) | sarasvati mantra kalpa
सरस्वतीमन्त्रकल्पः
अथ श्रीमल्लिषेणा चार्यविरचितः सरस्वतीमन्त्रकल्पः ।
जगदीशं जिनं देवमभिवन्द्याभिशङ्गरम् ।
वश्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ॥ १॥
अभयज्ञानमुद्राक्षमालापुस्तकधारिणी ।
त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ॥ २॥
लब्धवाणीप्रसादेन मल्लिषेणेन सूरिणा ।
रच्यत्ते भारतीकल्पः स्वल्पजाप्यफलप्रदः ॥ ३॥
दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी ।
निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ॥ ४॥
पुलिने निम्नगातीरे पर्चतारामसङ्कुले ।
रम्यैकान्तप्रदेशे वा हर्म्ये कोलाहलोज्झिते ॥ ५॥
तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम् ।
कुर्यात…