top of page

सरस्वतीमानसपूजा (पुष्पा श्रीवत्सेनविरचिता) | sarasvati manas puja

श्रीसरस्वतीमानसपूजा 
                 ॐ
           श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥

ॐ सरस्वत्यै च विद्महे । मनस्स्थायै च धीमहि ।
तन्नो वाक्श्रीः प्रचोदयात् ॥

अथ श्रीसरस्वतीमानसपूजा ॥

सरस्वति महाज्ञाने अन्तर्ज्ञानप्रकाशिके ।
मनःपवित्रहंसस्थे मनोवाक्श्वेतवस्त्रभे ॥ १॥

मनआभरणे वाणि मनोवाणिसुरूपिणि ।
मनआरामसङ्गीते मनोनादप्रसन्नते ॥ २॥

वीणातुम्बरसान्निध्ये मनोगानसुवाक्स्थिते ।
मनोवीणालये मातर्मनोवीणासुवादिनि ॥ ३॥

मनोध्यानाभिषिक्ते श्रीर्मनोलीनमदम्बिके ।
मनःपुष्पार्चिते मातर्मनोमयसुविग्रहे ॥ ४॥

मनआमयपीडाहे मनस्स्मेरमहाद्युते ।
मनोगानश्रुते मातर्मनोगानसुनादिनि ॥ ५॥

मनोदीपस…
bottom of page