top of page
सरस्वतीसप्तकम् | sarasvatI saptakam
श्रीसरस्वतीसप्तकम्
विहसन्ती वरवदने ! रतिमतिमेधां च सुधां च विकिरन्त ी ।
अज्ञानावृतगात्रं स्वकृपापात्रं विधेहि मामीशे ॥ १॥
वितरन्ती शं, वादं वाचि, विषादं विनाशय चज्ञानम् ।
वितरापूर्वाह्लादं, जहि मतिसादं प्रसीद वागीशे ! ॥ २॥
कलयन्ती हृदि हारं हीरकसारं प्रभां प्रवर्षन्ती ।
रचय स्वीयविहारागारं हृदयं मदीयमयि धीशे ! ॥ ३॥
दीनोद्धारं कारं मातः ! पारं नयाशु विनतोऽहम् ।
दुर्वृत्तीनां कदनं…