top of page

सरस्वतीसूक्तम् (ऋग्वेदोक्तम्) | sarasvati suktam

श्रीसरस्वति सूक्तम् 
॥ ॐ श्री गणेशाय नमः ॥

ॐ श्री महागणपतये॒ नमः॑ ॥

 
पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ १.००३.१०
चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत॑न्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ॥ १.००३.११
म॒हो अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ ।
धियो॒ विश्वा॒ वि रा᳚जति ॥ १.००३.१२
 
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ ।
या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑…
bottom of page