top of page
सरस्वतीस्तुतिः २ (राजानकाऽऽनन्दकृतम् ओङ्कार आरिप्सितकार्य) | sarasvati stutih 2
सरस्वतीस्तुतिः २
ओङ्कार आरिप्सितकार्यसिद्धेर्बुद्धेः प्रचाराय परः प्रकारः ।
निर्धूततत्तद्विषयप्रमादः श्रीशारदाया जयति प्रसादः ॥ १॥
ह्रीतेव यां वीक्ष्य मुखे मुरारेरुरःस्थिता श्रीर्भ्रमते जगत्सु ।
सरस्वती सा स्वत एव तुष्ट्या विचारहेतोश्चिरमाविरास्ताम् ॥ २॥
ऐश्वर्यबीजं परमेश्वरस्य विश्वैककर्तुस्तमसां विघाति ।
वाग्दैवतं वाङ्मनसातिगं तत् परं महो मे स्फुरतां पुरस्तात् ॥ ३॥
ह्रीते इवाऽस्तां विभवेन यस्या इच्छाक्रिये नित्यमनुप्रवृत्ते ।
तत्तत्स्वरूपप्रतिपत्तिहेतुः सा ज्ञानशक्तिर्मयि सन्निधत्ताम् ॥…