top of page

सरस्वतीस्तुतिः ३ (सितवर्णालङ्कारे सरस्वति | sarasvati stutih 3

सरस्वतीस्तुतिः ३ 

ॐ सितवर्णालङ्कारे सरस्वति समस्तवाङ्मयाधारे ! ।
कमलजमानसवरटे मृगाङ्कधवले नमस्तुभ्यम् ॥ १॥

धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः ।
यस्य मुखकमलकोशे वाङ्मया कुलदेवते वससि ॥ २॥

कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म ।
तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि ॥ ३॥

लक्ष्मीवानपि पुरुषः शूरः सुभगोऽपि कामसमरूपः ।
वृष इव विबुधसभायां प्रतिभात्यमले त्वया रहितः ॥…
bottom of page