top of page
सरस्वतीस्तुतिः ४ (ब्रह्मणाकृता वराहपुराणान्तर्गता जयस्व सत्यसम्भूते ध्रुवे देवि वराक्षरे) | brahmanakrita sarasvati stutih
ब्रह्मणा कृता सरस्व तीस्तुतिः
ब्रह्मोवाच ।
जयस्व सत्यसम्भूते ध्रुवे देवि वराक्षरे ।
सर्वगे सर्वजननि सर्वभूतमहेश्वरि ॥ ९॥
सर्वज्ञे त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।
सिद्धिबुद्धिकरी देवि प्रसूतिः परमेश्वरि ॥ १०॥
त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ।
त्वमोङ्कारस्थिता देवि वेदोत्पत्तिस्त्वमेव च ॥ ११॥
देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ।
पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ॥ १२॥
विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरि ।
सर्वज्ञा त्वं…