top of page
सरस्वतीस्तोत्रम् (पुष्पा श्रीवत्सेनविरचितम्) | sarasvati stotram
श्रीसरस्वतीस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ सरस्वत्यै च विद्महे । वागर्थायै च धीमहि ।
तन्नो वाणी प्रचोदयात् ॥
ध्यानम् -
नमस्तुभ्यं वरे देवि वीणापुस्तकधारिणि ।
विद्यासम्पत्तिदे वाणि सरस्वति नमोस्तु ते ॥ १॥
ऐंबीजपूजिते देवि वीणासङ्गीतमोदिते ।
ज्ञानमोक्षकविस्फूर्ते सरस्वति नमोस्तु ते ॥ २॥
वाग्देवीं स्वरमाधुर्यां सङ्गीतकवितावराम् ।
वीणापुस्तकसंवासां वाणीं वन्दे सरस्वतीम् ॥ ३॥
वीणागानप्रवीणां च विद्याकूटव…bottom of page
