top of page

सरस्वतीस्तोत्रम् (वसिष्ठप्रोक्तं वामनपुराणान्तर्गतम्) | vasishthaproktam sarasvati stotram

वसिष्ठप्रोक्तं सरस्वतीस्तोत्रम् 

वसिष्ठ उवाच ।
पितामहस्य सरसः प्रवृत्तासि सरस्वति ।
व्याप्तं त्वया जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ १३॥

त्वमेवाकाशगा देवी मेघेषु सृजसे पयः ।
सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे ॥ १४॥

पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा ।
स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥ १५॥

त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता ।
एवं सरस्वती तेन स्तुता भगवती तदा ॥ १६॥

इति वामनपुराणे चत्वारिंशाध्यायान्तर्गतं वसिष्ठप्रोक्तं
…
bottom of page