top of page

सरस्वतीस्तोत्रम् (वासुदेवानन्दसरस्वतीविरचितम् जुषस्व बालवाक्यवत्स्तवं) | sarasvati stotram

सरस्वतीस्तोत्रम् 

जुषस्व बालवाक्यवत्स्तवं ममाम्ब भारती ।
असत्सदप्यदस्त्वयि भ्रमाद्विभाति केवले ॥ १॥

क्षराक्षरात्परं हि यत्त्वमेव तत्पदं ध्रुवम् ।
जले यथोर्मिबुद्बुदास्तथा त्वयीशजीवदृक् ॥ २॥

त्र्यधीश ओङ्कृतेऽखिलं त्वमेव चास्य मङ्गलम् ।
यदर्धमात्रमूर्जितं क्रियाविकारवर्जितम् ॥ ३॥

त्रिसप्तयागसाधिके सुभुक्तिमुक्तिदायके ।
स्वरार्णकारणे स्तवः स्वयं नु कैः कृतस्तव ॥ ४॥

प्रकाशकप्रकाशके श्रुतिश्रुतादिधारके ।
त्वमेव सर्वकारणं त्वमेव सर्वतारणम् ॥ ५॥

सुशक्तभक्तभावितं हि तेन सर्वथा ततम् ।
तदेव धाम ते…
bottom of page