top of page

सरस्वतीस्तोत्रम् (वासुदेवानन्दसरस्वती विरचितम् हृद्वक्षस्थित) | sarasvati stotram vasudevananda

श्रीसरस्वतीस्तोत्रम् 

श्रीवासुदेवानन्दविरचितम् ।

हृद्वक्षस्थितविद्रुमाधिकमदा त्रीशस्य या स्फूर्तिदा
मालापुस्तकपद्मभृच्च वरदा या सर्वभाषास्पदा ।
या शङ्खस्फटिकर्क्षनाथविशदा या शारदा सर्वदा
प्रीता तिष्ठतु मन्मुखे सुवरदा वाग्जाड्यदा सर्वदा ॥ १॥

यस्यास्त्रीणी गुहागतानि हि पदान्येकं त्वनेकेडितं
स्तोतुं तां निगमेडितां बुधकुलं जातं त्वलं व्रीडितम् ।
ब्रह्माद्या अपि देवता नहि विदुर्यस्याः परं क्रीडितं
प्रारब्धात्र नुतिर्मयेव रुरुणा शार्दूलविक्रीडितम् ॥ २॥

अयि सर्वगुहास्थितेऽजिते मयि तेऽपाङ्गदृगस्तु पूजिते ।
त्वदृते नहि वागधीश्वरि…
bottom of page