top of page

सिद्धशारदास्तुतिः (द्विजेन्द्रकविविरचिता) | siddhasharada stutih

सिद्धशारदास्तुतिः 
सरस्वतीं शारदां च कौमारीं ब्रह्मचारिणीम् ।
वागीश्वरीं बुद्धिदात्रीं भारतीं भुवनेश्वरीम् ॥ १॥

चन्द्रघण्टां मरालस्थां जगन्मातरमुत्तमाम् ।
वरदायिनीं सदा वन्दे चतुर्वर्गफलप्रदाम् ॥ २॥

द्वादशैतानि नामानि सततं ध्यानसंयुतः ।
यः पठेत् तस्य जिह्वाग्रे नूनं वसति शारदा ॥ ३॥

इति श्री ``द्विजेन्द्र''कविकृता सिद्धशारदास्तुतिः समाप्ता ।

bottom of page