top of page
सिद्धसरस्वतीस्तोत्रम् | Siddha sarasvati stotram
सिद्धसरस्वतीस्तोत्रम्
सौन्दर्यमाधुर्यसुधासमुद्रविनिद ्रपद्मासनसन्निविष्टाम् ।
चञ्चद्विपञ्चीकलनादमुग्धां शुद्धां दधेऽन्तर्विसरत्सुगन्धाम् ॥ १॥
श्रुतिःस्मृतिस्तत्पदपद्मगन्धिप्रभामयं वाङ्मयमस्तपारम् ।
यत्कोणकोणाभिनिविष्टमिष्टं तामम्बिकां सर्वसितां श्रिताः स्मः ॥ २॥
न कान्दिशीकं रवितोऽतिवेलं तं कौशिकं संस्पृहये निशातम् ।
सावित्रसारस्वतधामपश्यं शस्यं तपोब्राह्मणमाद्रिये तम् ॥ ३॥
श्रीशारदां प्रार्थितसिद्धविद्यां श्रीशारदाम्भोजसगोत्रनेत्राम् ।
श्रीशारदाम्भोजनिवीज्यमानां श्रीशारदाङ्कानुजनिं भजामि ॥ ४॥
चक्राङ्गराजाञ्चितपादपद्मां पद्मालयाऽभ्यर्थितसुस्मितश्रीः ।
स्मितश्रिया वर्षितसर्वकामा वामा विधेः पूरयतां प्रियं नः ॥ ५॥
बाहो रमायाः किल कौशिकोऽसौ हंसो भवत्याः…bottom of page
