top of page

काकिनीकवचम् (रुद्रयामलान्तर्गतम्) | Kakinikavacham

काकिनीकवचम् 
अथ षष्ठसप्ततितमः पटलः
श्रीआनन्दभैरवी उवाच
कथयामि महाकाल! चात्यन्ताद्भुतसाधनम् ।
कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् ॥ ७६-१॥

यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके ।
भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥ ७६-२॥

किं न सिद्धिं करोत्येव साधको योगिनीपतिः ।
योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥ ७६-३॥

महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव च ।
फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥ ७६-४॥

जङ्घासिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा…
bottom of page