top of page
काकिनीस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Kakinistotram
श्रीकाकिनीस्तोत्रम्
अथैकोनषष्टितमः पटलः
श्रीआनन्द भैरवी उवाच
ज्ञानेश्वरी शुभकरी परिभावनीया
योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्द्रैः ।
तां काकिनीं परशिवां परमेशपत्नीं
संस्तौमि चारुहृदयाम्बुजपीठमध्ये ॥ ५९-१॥
एकाकिनी त्रिजगतामतिनाशकाले
त्वां काकिनीं समरकार्णा(ण्ड) ककाकपत्नीम् ।
त्वं साक्षिणी भुवनभङ्गविधौ सकास्ते
भूषण्डकाकमहिषीव वयं भजामः ॥ ५९-२॥
एकाकिनीं सकलधारणकालयोगे
आधार्य देहसमये सति काकिनीं त्वाम् ।
वाय्वासने मनस आशु विकारनाशे
काकेन्द्रचञ्चुचलितामहमेवमीडे ॥ ५९-३॥
भावोदये प्रणयिनीमगतौ च भावा
आह्लादयोगविभवे भुवनेश्वरीं त्वाम् ।
मन्दारहाररुचिरे परमेश्वरि त्वं
रक्षां कुरु प्रथमतो मतिमाश्रयामि ॥ ५९-४॥
चन्द्रोदये सुखमयी…bottom of page
