top of page
काकिन्यष्टोत्तरसहस्रनामस्तोत्रम् | KakiniashTottarasahasranamastotra
काकिन्यष्टोत्तरसहस्रनामस्तोत्र
श्रीगणेशाय नम ः ।
श्रीआनन्दभैरव उवाच ।
वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते ।
ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥
कालिके कालरात्रिस्थे महाकालनिषेविते ।
शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् ॥ २ ॥
सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् ।
अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥
ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् ।
सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥ ४ ॥
परानन्दकरं ब्रह्म निर्वाणपदलालितम् ।
स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥
इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि ।
स्नेहानन्दरसोद्रेकसम्बन्धान् कथय…bottom of page
