top of page
कुण्डलिनिस्तवः २ (रुद्रयामलान्तर्गतम्) | Kundalini stavah 2
कुण्डलिनिस्तवः २
आनन्दभैरव उवाच
षट्चक्रभेदनकथां कथयस्व वरानने ॥ २८-७१॥
हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् ।
प्रकाशयस्व वरदे योगानामुदयं वद ॥ २८-७२॥
येन योगेन धीराणां हितार्थं वाञ्छितं मया ।
कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् ॥ २८-७३॥
कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् ।
आनन्दभैरवी उवाच
आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥ २८-७४॥
मान्द्यं मन्दगुणोपेतं शृणु तत्क्रममुत्तमम् ।
स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥ २८-७५॥
पुरश्चरणकाले तु जपान्ते नित्यकर्मणि ।
काम्यकर्मणि…bottom of page
