top of page
कुण्डलिनीस्तवः (रुद्रयामलोत्तरतन्त्रान्तर्गतः) | Kundalini stava from Rudrayamala uttara tantra
कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्
कुण्डलिनीस्तुतिस्तोत्रः
जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमा
नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी ।
मां पातु प्रियदासभावकपदं संन्घातये श्रीधरा
धात्रि त्वं स्वयमादिदेववनिता दीनातिदीनं पशुम् ॥ ६-२९॥
रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता
जाग्रत्कूर्मसमाश्रिता भगवति त्वं मां समालोकय ।
मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं
स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥ ६-३०॥
सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया
कुण्डल्याकुलमार्गमुक्तनगरी मायाकुमार्गः श्रिया ।
यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा
नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥ ६-३१॥
वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके
नित्यं सम्प्रति…