top of page

कुण्डलिनीस्तोत्रम् २ कन्दवासिनिस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Kundalini stotram 2

कुण्डलिनीस्तोत्रम् २ कन्दवासिनीस्तोत्रम् 
श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि श‍ृणुष्व मम तत्त्वतः ।
शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी ॥ ३२-१॥

कलिकल्मषहन्त्री च जगतां मोक्षदायिनी ।
तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं श‍ृणु प्रभो ॥ ३२-२॥

यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः ।
चैतन्यानन्दनिरतो भवेत् कुण्डलिसङ्गमात् ॥ ३२-३॥

आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् ।
अमृतानन्दरूपाभ्यां करोषि पालनं नृणाम् ॥ ३२-४॥

कुण्डलिनी-ध्यानम् ।
श्वासोच्छ्वासकलाभ्यां च शरीरं…
bottom of page