top of page
कुण्डलिनीस्तोत्रम् (प्राणतोषिणी तन्त्रान्तर्गतम्) | Kundalini stotram
कुण्डलिनी स्तोत्रम्
ॐ नमस्ते देवदे वेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १॥
ॐ प्रसुप्तभुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २॥
असारे घोरसंसारे भवरोगात् कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३॥
इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४॥
इति प्राणतोषिणी तन्त्रे कुण्डलिनी स्तोत्रं सम्पूर्णम् ॥bottom of page
