top of page
कुलकुण्डलीकवचं अथवा कन्दवासिनीकवचम् (रुद्रयामलान्तर्गतम्) | Kul kundali kavacham from Rudrayamala
श्रीकुलकुण्डलीकवचस्तोत्रम् अथवा कन्दवासिनीकवचम्
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
आनन्दभैरवी उवाच ।
अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् ।
परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥ १॥
यत्कृत्वा योगिनः सर्वे धर्माधर्मप्रदर्शकाः ।
ज्ञानिनो मानिनो धर्मान् विचरन्ति यथामराः ॥ २॥
सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः ।
एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् ॥ ३॥
ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः ।
प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम्…bottom of page
