top of page
चामुण्डास्तोत्रम् ३ (रुद्रयामलान्तर्गतम् ऐं बीजं परमात्म) | Chamunda stotram 3
श्रीचामुण्डास्तोत्रम्
(नवार्ण मन्त्र-गर्भित )
ऐं बीजं परमात्मनिःश्वसितभूवेदादिवर्णात्मकं,
ये भक्त्या मनसा जपन्ति परमं तेषां सुवाक्ज्ञानदाम् ।
अम्बां मद्धृदयाम्बरस्थपरचिद्रूपामनन्तास्पदां,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ १॥
ह्रीङ्काराम्बररङ्गनर्तनकरीमोङ्कारलक्ष्यां परा-
मोङ्कारात्मकवर्णलक्ष्यविभवामाकारहीनां शिवाम् ।
साकारां वरदाभयाङ्कुशमहापाशान् करैर्बिभ्रतीं,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ २॥
क्लीङ्काराख्यमहामणिं रतिपतिः प्राप्याङ्गहीनः परं,
ग्रीवापादविहीनकोऽपि मदनो यस्याः प्रसादान्मुदा ।
त्रीन् लोकान् कुसुमेषुभिर्विजितवान् तां वेदसारात्मिकां
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ३॥
चार्वङ्गीमतिसुन्दरीमभयदामम्भोजमध्यस्थितां,
चार्वङ्गीकृतगानवाद्यरस…