top of page

त्रितत्त्वलाकिनीस्तवनम् (रुद्रयामलान्तर्गतम्) | Tritattvalakini stavanam

त्रितत्त्वलाकिनीस्तवनम् 
शिवां शक्यामाद्यां दशदलगतां रुद्रमहिषीं
विशालाक्षीं सूक्ष्मां शशियुतजटाजूटमुकुटाम् ।
महाविद्युत्कोटिप्रियजडितपीठे त्रिनयनां
महालाकिन्याख्यां दशदल कलां भावयति कः ॥ ४४-२५॥

मृणालान्तर्ध्वान्तः प्रकटतटसंहारसुभगां
कुलक्षेत्रोल्लासां चरमपददां दीपकलिकाम् ।
सदानन्दाकारां गतिगुणहरां चारुकिरणां
प्रभावर्णश्यामां रुचिरवदनां भावयति कः ॥ ४४-२६॥

प्रतीक्षानन्दाब्धिं प्रकटचरणाम्भोजयुगलां
वियद्वर्णां कान्तां सुरवरसुपूजाविधिरताम् ।
महासूक्ष्मद्वारप्रचलनकरीं भेदनकरीं
दिवायोगाह्लादप्रियजनशिवां भावयति कः ॥ ४४-२७॥

अयोध्यापीठस्थामरुणकमनीं प्रेमगलितां
महारौद्रीं भीमां शतशतरविप्रेमनिकराम् ।
महादुःखार्तानां नयनशुभगां भावविरहां
सतीं सीतामिन्द्रोत्सवनवघटां भावयति कः ॥ ४४-२८॥

सुधाब्धेराह्लादप्रकरणसुरां सौरभकरां
क्रियारूपां योग्यां भुवमणिपूरप्रकृतिगाम् ।
गुरोः…
bottom of page