top of page

रुद्राणिरुद्रयोःनामानि (रुद्रयामलान्तर्गतम्) | Rudrani Rudrayoh namani

रुद्राणिरुद्रयोः नामानि 
रुद्रस्य एकपञ्चाशन्नामानि -
पञ्चाशदेकशक्तीनां तथा नाम श‍ृणु प्रभो ।
सर्वेषामभिधानान्ते ईशाय नम उच्चरेत् ॥ ४७-३९॥

एकैकं मातृकावर्णं नाम्न आद्ये नियोजयेत् ।
शक्तियुक्तं सदा नाम ईशान्तं सन्त्यजेत् तथा ॥ ४७-४०॥

भेदने शक्तियुक्तस्तु न्यासं कुर्यान्महायतिः ।
कुशासने सिद्धिहेतोश्चैलाजिनकुशोत्तरम् ॥ ४७-४१॥

बद्धैकमासनं योगी न्यासजालं समाचरेत् ।
अथवा द्वीपिचर्मादि कोमलाद्यासनेऽपि वा ॥ ४७-४२॥

योगाभ्यासी न्यासजालं कृत्वा सावभयो भवेत् ।
भद्रकाली गृहे स्थित्वा…