top of page
लाकिनीदेवीस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Lakini devi stotram
श्रीलाकिनीदेवीस्तोत्रम्
अथैकोनपञ्चाशत्तमः पटलः
आनन्दभैरवी उवाच
षट्चक्रभेदनार्थाय सर्वसिद्धसुसिद्धये ।
वक्ष्यामि लाकिनीदेवीस्तोत्रं परमदुर्लभम् ॥ ४९-१॥
यत्पाठादतिसन्तोषं प्राप्नोति यतिरीश्वर ।
तत्क्रियासारसम्पन्नं स्तवनं लाकिनीप्रियम् ॥ ४९-२॥
अस्य श्रीलाकिनीस्तोत्रस्य महाविष्णुकहोड-ऋषि-र्गायत्रीच्छन्दो
महासिद्धिदमृत्युञ्जयमहारुद्र लाकिनी सरस्वतीदेवता
मणिपूरभेदने जपे विनियोगः ॥
ओं बीजाक्षरमूर्तिमार्ति हरिणीमार्यां जयां बुद्धिदां
दीनानामपराधकोटिहननीं संज्ञामणिं योगिनाम् ।
त्वामाद्यामनुरागिणीं गुणगणामोदैकहेतुस्थलां
स्थित्यन्तःकृतकौतुकीमवरदे वन्दे मुदा लाकिनीम् ॥ ४९-३॥
हेरम्बार्चनसिद्धिदाद्वयगता कोटिप्रभा भास्करा
साकारा किरणोज्ज्वला सुखमयी वेदध्वनिप्राणिनी ।
कोपाकोपितलक्षणा तरुतराकल्पाशयासंशया
कृत्वैवं वरवर्णिनी समवतु श्रीलाकिनी…bottom of page
