top of page

लाकिनीसहस्रनामस्तोत्रम् | Lakkini sahasra nama stotram

श्रीलाकिनीसहस्रनामस्तोत्रम् 

श्रीगणेशाय नमः ।
आनन्दभैरवी उवाच ।
अथ सम्भेदनार्थाय वक्ष्ये षट्पङ्कजस्य च ।
महारुद्रस्य देवस्य श्री श्रीमृत्युञ्जयस्य च ॥ १॥

लाकिनी शक्तिसहितं सहस्रनाममङ्गलम् ।
अष्टोत्तरशतव्याप्तं निगूढं भव सिद्धये ॥ २॥

धारयित्वा पठित्वा च श्रुत्वा वा नाममङ्गलम् ।
श‍ृणुष्व परमानन्द योगेन्द्र चन्द्रशेखर ॥ ३॥

तवाह्लादप्रणयनात् सर्वसम्पत्तिप्राप्तये ।
मणियोगसुसिद्ध्यर्थं सावधानाऽवधारय ॥ ४॥

अष्टोत्तरसहस्रनाममङ्गलस्य कहोड
ऋषिर्गायत्रीच्छन्दो महारुद्रमृत्युञ्जयलाकिनी सरस्वतीदेवता
सर्वाभीष्टशचीपीठयोगसिद्ध्यर्थे विनियोगः ।
ॐ मृत्युञ्जय रुद्रादि लाकिन्यादि सरस्वती…
bottom of page