top of page

शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनामस्तोत्रम् | Shakini sadashiv stavana mangalashtottara sahasra nama stotra

शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनामस्तोत्र 

श्रीगणेशाय नमः ।
श्रीआनन्दभैरवी उवाच ।
कैलासशिखरारूढ पञ्चवक्त्र त्रिलोचन ।
अभेद्यभेदकप्राणवल्लभ श्रीसदाशिव ॥ १ ॥

भवप्राणप्ररक्षाय कालकूटहराय च ।
प्रत्यङ्गिरापादुकाय दान्तं शब्दमयं प्रियम् ॥ २ ॥

इच्छामि रक्षणार्थाय भक्तानां योगिनां सदाम् ।
अवश्यं कथयाम्यत्र सर्वमङ्गललक्षणम् ॥ ३ ॥

अष्टोत्तरसहस्राख्यं सदाशिवसमन्वितम् ।
महाप्रभावजननं दमनं दुष्टचेतसाम् ॥ ४ ॥

सर्वरक्षाकरं लोके कण्ठपद्मप्रसिद्धये ।
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥ ५ ॥

योगसिद्धिकरं साक्षाद् अमृतानन्दकारकम् ।
विषज्वालादिहरणं मन्त्रसिद्धिकरं…
bottom of page