top of page

शाकिनीसदाशिवार्चनम् (रुद्रयामलान्तर्गतम्) | Shakini sadashiv archanam

शाकिनीसदाशिवार्चनम् 
अथ पञ्चषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि समुदायफलोदयम् ।
कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं श‍ृणु प्रभो ॥ ६५-१॥

शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम् ।
मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः ॥ ६५-२॥

ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।
ततो ध्यानं प्रवक्ष्यामि वीरनाथ श‍ृणु प्रभो ॥ ६५-३॥

आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे ।
द्वयोरभेदबुद्ध्या च कामजेता स्वयं भवेत् ॥ ६५-४॥

वन्दे नित्यां सुशीलां…
bottom of page