top of page

शाकिनीस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Shakini stotram

शाकिनीस्तोत्रम् 
अथ सप्तषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
कुरु नाथ वन्दनं भो पूजनं कवचं पठ ।
वर्णाध्यानं कण्ठपद्मे स्थिरो भव जगत्पते ॥ ६७-१॥

परमा शाकिनी विद्या महामोहनिवारिणी ।
योगिनीकोटिभिः सार्धं राजते सूर्यवत् सदा ॥ ६७-२॥

वाराणसीपुरे स्थित्वा कण्ठपद्मस्थितां भज ।
स्तोत्रेणानेन विधिना भक्तिं कुरु महाशिवे ॥ ६७-३॥

अखण्डे नीलपङ्केरुहविमलकरे स्थापितां षोडशारे
हेमाभां विद्युताभां सुकणकवलयां चन्द्रकोटिप्रभावाम् ।
श्रीकन्यां शाकिनीशां त्रिपुरहरकराम्भोजपूजाविनोदीं
कामाख्यां रुद्रमायां वधुनयनयुतां शक्रकान्तप्रकाशाम्…
bottom of page