top of page
सदाशिवशाकिनीकवचम् (रुद्रयामलान्तर्गतम्) | Sadashiv Shakini kavacham
सदाशिवशाकिनीकवचम्
अथ सप्ततितमः पटलः
श्रीआनन्दभैरव उवाच
कथितं शाकिनीसारं सदाशिवफलोदयम् ।
श्रुतं परमकल्याणं भेदभाषाक्रमोदयम् ॥ ७०-१॥
इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥ ७०-२॥
वद कान्ते शब्दमयि यदि स्नेहोऽस्ति मां प्रति ।
आनन्दभैरवं नत्वा सोवाचानन्दभैरवी ॥ ७०-३॥
श्रीआनन्दभैरवी उवाच
गुरोः परमकल्याणं कवचं कथये तव ।
सदाशिवस्य शाकिन्या भैरवानन्दविग्रह ॥ ७०-४॥
शृणुष्व कामदं नामाद्भुतं कवचमङ्गलम् ।
त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् ॥…bottom of page
