top of page

हाकिनीपरनाथस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Hakini paranatha stotram

हाकिनी परनाथ स्तोत्रम् 
अथ त्र्यशीतितमः पटलः
श्रीआनन्दभैरव उवाच
कथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम् ।
यस्य प्रपाठनाद् वाग्मी कृपायासे दयामयि ॥ ८३-१॥

श्रीआनन्दभैरवी उवाच
अत्यद्भुतं स्तोत्रवरं श‍ृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम् ।
यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविद्भिः ॥ ८३-२॥

ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरूपाम् ।
हाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम् ।
हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्राम् ।
मन्दारारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम् ॥ ८३-३॥

हिरण्यालङ्कारां त्रितयनयनां पट्टवसनां
     महास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम् ।…
bottom of page