top of page

हाकिनीशक्तिकवचम् (रुद्रयामलान्तर्गतम्) | Hakini shakti kavacham

हाकिनीशक्तिकवचम् 
अथ चतुरशीतितमः पटलः
श्रीआनन्दभैरव उवाच
अथादौ कथयानन्दभैरवि प्राणवल्लभे ।
कवचं हाकिनीदेव्याः परमानन्दवर्धनम् ॥ ८४-१॥

हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते ।
शीघ्रं विरचयानन्द कवचं सारमङ्गलम् ॥ ८४-२॥

श्रीआनन्दभैरवी उवाच
आदौ श‍ृणु महावीर परमानन्दसागर ।
कवचं हाकिनीदेव्याः संसारार्णवतारकम् ॥ ८४-३॥

यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत् ।
अन्तरिक्षे च भूलोके पाताले ये चराचराः ॥ ८४-४॥

स्तम्भिता वेपमानाः स्युर्विद्याज्ञानादिपाठतः ।
कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः ॥ ८४-५॥

विद्रवन्ति भयार्ता वै…
bottom of page