top of page
हाकिनीसहस्रनामस्तोत्रम् | Hakini sahasra nama stotra
हाकिनीसहस्रनामस्तोत्र
श्रीगणेशाय नमः ।
श्री आनन्दभैरव उ वाच ।
आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले
कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे ।
स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं
हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः ॥ १ ॥
श्री आनन्दभैरवी उवाच
साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो
नाम्नां शक्तिसहस्रनाम भाविकं ज्ञानादि चाष्टोत्तरम् ।
योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः
सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥ २ ॥
अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः
स्तोत्रस्य सदाशिव ऋषिः , गायत्रीच्छन्दः ,
श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता , क्लीं बीजं ,…bottom of page
