top of page
अगस्त्येशलिङ्गाष्टकम् | Agastyeshalingashtakam
श्रीअगस्त्येशलिङ्गाष्टकम्
श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल-
त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली-
सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं
शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम् ।
गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २॥
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं
मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम् ।
वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३॥
भूम्यापोऽग्निसमीरणा(प्रभञ्जना)म्बरलसत्सोमार्कयज्वा(स्वात्मा)भिधै-
रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।
भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भ…bottom of page
