top of page
ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता) | OMkareshvaramahatmyam
ॐकारेश्वरमहात्म्यम्
पार्वती -
महादेवमहानन्दकरुणामृतसागर ।
श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥
किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।
क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥
ईश्वरः -
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।
ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥
तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।
ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥
भासिताभासितैर्नित्यं शान्ता…