top of page

भगवद्गीता (मूल) अध्याय-03 | Bhagavad Gita Chapter-03

श्रीमद्भगवद्गीता ॥ ॐ श्री परमात्मने नमः ॥

॥ अथ श्रीमद्भगवद्गीता ॥

अथ तृतीयोऽध्यायः ।   कर्मयोगः

        अर्जुन उवाच ।

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२॥

        श्रीभगवानुवाच ।

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्म…
bottom of page