top of page
तुलसीकवचम् २ (वृद्धपाद्मतः कवचं तव) | Tulasikavacham 2
तुलसीकवचम् २
कवचं तव वक्ष्यामि भवसङ्क्रमनाशनम् ।
यस्य जापेन सिद्ध्यन्ति सर्वार्था नातियत्नतः ॥ १॥
तुलसी पातु मे नित्यं शिरोवक्त्रोष्ठनासिकाः ।
श्रोत्रनेत्रललाटं च भ्रूकपोलं निरन्तरम् ॥ २॥
श्रीसखी पातु मे कण्ठं भुजौ वक्षश्च कक्षकम् ।
पृष्ठं च पिठरं सर्वं स्तनं जानू च हृत्तटम् ॥ ३॥
शुभा पातूदरं नाभिं पार्श्वं हस्ताङ्गुलिं तथा ।
जाठरं वह्निमखिलं गुदं जघनगुह्यकम् ॥ ४॥
पापहारिण्यवतु…bottom of page
