top of page

तुलसीगीता | Tulasi Gita

तुलसीगीता 

श्रीभगवानुवाच --
प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना ।
स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥ १॥

श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते ।
भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥ २॥

निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः ।
तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ ३॥

महाप्रसादजननी आधिव्याधिविनाशिनी ।
सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥…
bottom of page